|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.96. अध्यायः 096
Mahabharata - Bhishma Parva - Chapter Topics
भीमेन दुर्योधनानुजानां कतिपयानां हननम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-96-0x(4180)(43053)
पुत्रं विनिहतं श्रुत्वा इरावन्तं धऩञ्जयः।
दुःखेन महताऽऽविष्टो निःश्वसन्पन्नगो यथा ॥ 6-96-1(43054)
अब्रवीत्समरे राजन्वासुदेवमिदं वचः।
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ॥ 6-96-2(43055)
कुरूणां पाण्डवानां च क्षयं घोरं महामतिःक ।
स ततो निवारितवान्धृतराष्ट्रं जनेश्वरम् ॥ 6-96-3(43056)
अन्ये च बहवो वीराः संग्रामे मधुसूदन।
निहताः कौरवैः सङ्ख्ये तथाऽस्माभिश्च कौरवाः ॥ 6-96-4(43057)
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्।
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः ॥ 6-96-5(43058)
अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्वनम् ।
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ॥ 6-96-6(43059)
दुर्योधनापराधेन शकुनेः सौबलस्य च।
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ॥ 6-96-7(43060)
इदानीं च विजानामि सुकृतं मधुसूदन।
कृतं राज्ञा महाबाहो याचता त सुयोधनम् ॥ 6-96-8(43061)
राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिःक ।
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले ॥ 6-96-9(43062)
निन्दामि भृशमात्मानं धिगस्तु क्षत्रिजीविकाम् ।
अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे ॥ 6-96-10(43063)
एतदर्थं मया युद्धं रोचितं मधुसूदन।
संचोदय हयाञ्शीघ्रं धार्तराष्ट्रचमूं प्रति ॥ 6-96-11(43064)
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ।
नायं क्लीबायितुं कालो विद्यते माधव क्वचित् ॥ 6-96-12(43065)
सञ्जय उवाच। 6-96-13x(4181)
एवमुक्तस्तु पार्थेन केशवः परवीरहा।
चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ॥ 6-96-13(43066)
अथ शब्दो महानासीत्तव सैन्यस्य भारत।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ 6-96-14(43067)
अपराह्णे महाराज संग्रामः समपद्यत ।
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥ 6-96-15(43068)
ततो राजंस्तव सुता भीमसेनमुपाद्रवन् ।
परिवार्य रणे द्रोणं वसवो वासवं यथा ॥ 6-96-16(43069)
ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः।
भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् ॥ 6-96-17(43070)
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ ।
अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः ॥ 6-96-18(43071)
शेषास्त्वन्ये महाराज शेषानेव महारथान् ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ॥ 6-96-19(43072)
`भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव विशांपते'।
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥ 6-96-20(43073)
पुत्रास्तु तव कौन्तेयं छादयांचक्रिरे शरैः।
प्रावृषीव महाराज जलदा इव पर्वतम् ॥ 6-96-21(43074)
स च्छाद्यमानो बहुधा पुत्रैस्तव विशांपते ।
सृक्विणी संलिहन्वीरः शार्दूल इव दर्पितः ॥ 6-96-22(43075)
व्यूढोरस्कस्ततो भीमः पोथयामास पार्थिवम् ।
क्षुरप्रेण सुतीक्ष्णेन सुमुक्तेन महारणे ॥ 6-96-23(43076)
ताडयामास संक्रुद्धः सोऽभवद्व्यथितेन्द्रियः ।
अपरेण तु भल्लेन पीतेन निशितेन तु।
अपातयत्कुण्डलितं सिंहः क्षुद्रमृगं यथा ॥ 6-96-24(43077)
ततः सुनिशितान्बाणान्भीमसेनः शिलाशितान् ।
स सप्त संदधे हन्तुं पुत्रास्ते भरतर्षभ ॥ 6-96-25(43078)
प्रेषिता भिमसेनेन शरास्ते दृढधन्वना ।
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥ 6-96-26(43079)
अनाधृष्टिं कुण्डभेदिं विराजं दीप्तलोचनम् ।
दीर्घबाहुं सुबाहुं च तथैव मकरध्वजम् ॥ 6-96-27(43080)
प्रपतन्तिस्म वीरास्ते विरेजुर्भरतर्षभ।
वसन्ते पुष्पशबलाः किंशुकाः पतिता इव ॥ 6-96-28(43081)
ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे ।
तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥ 6-96-29(43082)
द्रोणस्तु समरे वीरं निर्दहनक्तं सुतांस्तव ।
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ॥ 6-96-30(43083)
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् ।
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥ 6-96-31(43084)
यथा गोवृषभो वर्षं संधारयति स्वात्पतत् ।
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥ 6-96-32(43085)
अद्भुतं च महाराज तत्र चक्रे वृकोदरः ।
यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्यवारयत् ॥ 6-96-33(43086)
पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः ।
मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ॥ 6-96-34(43087)
यथा हि पशुमध्यस्थो द्रावयेत पशून्वृकः ।
वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥ 6-96-35(43088)
गाङ्गेयो भगदत्तश्च गोतमश्च महारथाः ।
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ॥ 6-96-36(43089)
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥ 6-96-37(43090)
अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् ।
विरथं रथिनां श्रेष्ठं कारयामास सायकैः ॥ 6-96-38(43091)
विरथो वध्यमानस्तु सौभद्रेण यशस्विना ।
अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः ॥ 6-96-39(43092)
असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।
आरुरोह रथं चैव हार्दिक्यस्य महाबलः ॥ 6-96-40(43093)
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥ 6-96-41(43094)
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा।
साधुसाध्विति सैन्यानां प्रणादोऽभूद्विशांपते ॥ 6-96-42(43095)
धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन्।
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥ 6-96-43(43096)
तत्राक्रन्दो महानासीत्तव तेषां च भारत।
निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम् ॥ 6-96-44(43097)
अन्योन्यं हि रणे शूराः केशेष्वाक्षिष्य मानिनः।
नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥ 6-96-45(43098)
तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः।
विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥ 6-96-46(43099)
न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा।
व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः ॥ 6-96-47(43100)
रणे चारूणि चापानि हेमपृष्ठानि मारिष ।
हतानामपविद्धानि कलापाश्च महाधनाः ॥ 6-96-48(43101)
जातरूपमयैः पुङ्खै राजतैर्निशिताः शराः।
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥ 6-96-49(43102)
खङ्गाश्च दान्तत्सरवो जातरूपपरिष्कृताः ।
चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनां ॥ 6-96-50(43103)
सुवर्णाविकृताः प्रासाः प्रभग्ना हेमभूषिताः।
जातरूपमया यष्ट्यः शक्त्यश्च कनकोज्ज्वलाः ॥ 6-96-51(43104)
अवस्कन्दाश्च पतिता मुसलानि गुरूणि च ।
परिघाः पट्टसाश्चैव भिण्डिपालाश्च मारिष ॥ 6-96-52(43105)
पतिता विविधाश्चापाश्चित्रा हेमपरिष्कृताः ।
कुथा बहुविधाकाराश्चामरा व्यजनानि च ॥ 6-96-53(43106)
नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः।
जीवन्त इव दृश्यनते गतसत्त्वा महारथाः ॥ 6-96-54(43107)
गजाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः।
गजावाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥ 6-96-55(43108)
तथैवाश्वनृनागानां शरीरैर्विबभौ तदा।
संछन्ना वसुधा राजन्पर्वतैरिव शातितैः ॥ 6-96-56(43109)
समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः।
निस्त्रिंशैः पट्टसैः प्रासैरवस्कन्दैः परश्वथैः ॥ 6-96-57(43110)
परिघैर्भिण्डिपालैश्च शतघ्नीभिश्च मारिष।
शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी ॥ 6-96-58(43111)
विशब्दैरल्पशब्दैश्च शोणितौगपरिप्लुतैः।
गतासुभिरमित्रघ्न विबभौ निचिता मही ॥ 6-96-59(43112)
सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः ।
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥ 6-96-60(43113)
बद्धचूजामणिवरैः शिरोभिश्च सकुण्डलैः ।
पातितै ऋषभाक्षाणां बभौ भारत मेदिनी ॥ 6-96-61(43114)
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः ।
रराज सुभृशं भूमिः शान्तार्चिर्भिरिवानलैः ॥ 6-96-62(43115)
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः ।
विप्रकीर्णैः शरैश्चैव रुक्मपुङ्खैः समन्ततः ॥ 6-96-63(43116)
रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः ।
वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वैः सशोणितैः ॥ 6-96-64(43117)
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि ।
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ॥ 6-96-65(43118)
स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही ।
नानारूपेरलंकारैः प्रमदेवाभ्यलङ्कृता॥ 6-96-66(43119)
दन्तिभिश्चापरैस्तत्र सप्राणैर्गाढवेदनैः ।
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ॥ 6-96-67(43120)
विबभौ तद्रणस्थानं स्यन्दमानैरिवाचलैः।
नानारागैः कम्बलैश्च परिस्तोमेश्च दन्तिनाम् ॥ 6-96-68(43121)
वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः।
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः ॥ 6-96-69(43122)
विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा।
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ॥ 6-96-70(43123)
यन्त्रैश्च बहुधा च्छिन्नैस्तोमरैश्चापि काञ्चनैः।
`रराज सुभृशं भूमिस्तत्रतत्र विशांपते'
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः॥ 6-96-71(43124)
सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा।
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः॥ 6-96-72(43125)
उष्णीषैश्च तथा चित्रैर्विप्रविद्धैस्ततस्ततः।
विचित्रैर्बाणवर्षैश्च जातरूपपरिष्कृतैः ॥ 6-96-73(43126)
अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा।
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ॥ 6-96-74(43127)
छत्रैस्तथापविद्धैश्च चामरैर्व्यजनैरपि ।
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः ॥ 6-96-75(43128)
क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ।
अपविद्धैर्महाराज सुवर्णाज्ज्वलकुण्डलैः ॥ 6-96-76(43129)
ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा।
एवमेते महासेने मृदिते तत्र भारत ॥ 6-96-77(43130)
परस्परं समासाद्य तव तेषां च संयुगे ।
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ॥ 6-96-78(43131)
रात्रिः समभवत्तत्र नापश्याम ततोऽनुगान् ।
ततोऽवहारं सैकन्यानां प्रचुक्रुः कुरुपाण्डवाः ॥ 6-96-79(43132)
घोरे निशामुखे रौद्रे वर्तमाने महाभये।
अवहारं ततः कृत्वा सहिताः कुरुपाणड्वाः ।
न्यविशन्त निशाकाले गत्वा स्वशिबिरं तदा ॥ ॥ 6-96-80(43133)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे षण्णवतितमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-96-23 व्यूढोरस्कं इति झo पाठः ॥ 6-96-48 अपविद्धानि पतितानि ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|